स॒मु॒द्रो॒ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ । मारु॒तो॒ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ । अव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑
samudró ’si nábhasvān ārdrádānuḥ śambhū́r mayobhū́r abhí mā vāhi svā́hā | mārutó ’si marútāṃ gaṇáḥ śambhū́r mayobhū́r abhí mā vāhi svā́hā | avasyū́r asi dúvasvān śambhū́r mayobhū́r abhí mā vāhi svā́hā
तू समुद्र आहेस—नभस्वान् (मेघांना प्रेरित करणारा), आर्द्रदानुः (आर्द्रता देणारा); तू शम्भूः, तू मयोभूः—मला इथे वहन कर. स्वाहा. तू मारुत आहेस—मरुतांचा गण; तू शम्भूः, तू मयोभूः—मला इथे वहन कर. स्वाहा. तू अवस्युः आहेस—सहाय्य करण्यास इच्छुक, दुवस्वान् (दानसमृद्ध); तू शम्भूः, तू मयोभूः—मला इथे वहन कर. स्वाहा.
समुद्रः । असि । नभस्वान् । आर्द्र-दानुः । शम्भूः । मयः-भूः । अभि । मा । वाहि । स्वाहा ।
मारुतः । असि । मरुताम् । गणः । शम्भूः । मयः-भूः । अभि । मा । वाहि । स्वाहा ।
अवस्युः । असि । दुवस्वान् । शम्भूः । मयः-भूः । अभि । मा । वाहि । स्वाहा ।