यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तᳪ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या
yó naḥ pitā́ janitā́ yó vidhātā́ dhā́māni véda bhúvanāni víśvā | yó devā́nāṃ nāmadhā́ éka evá táṃ sampráśnaṃ bhúvanā yanty anyā́ ||
जो आमचा पिता, जनक, आणि विधाता आहे; जो धामे व सर्व भुवने जाणतो; जो देवांच्या नामांचा एकमेव नामधाता आहे—त्यालाच प्रश्न करण्यास योग्य मानून इतर सर्व भुवन-प्राणी त्याच्याकडे जातात.
यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॑-धा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ । यः । दे॒वानाम् । नाम॒धा । एकः॑ । ए॒व । तम् । सम्-प्र॒श्नम् । भुव॑ना । यन्ति । अ॒न्या ।