इ॒मं मा हि॑ᳪसी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द । गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु
imáṁ mā́ hiṁsī́r ékaśaphaṁ pa̱śúṁ kanikra̱dáṁ vā̱jínaṁ vā̱jíneṣu | gau̱rám āra̱ṇyám ánu te diśāmi téna cinvā̱nas ta̱nvò ní ṣīda | gau̱ráṁ te śúg gṛcchatu yáṁ dvi̱ṣmás táṁ te śúg gṛcchatu ||
या एकशफ (एक‑खुर) यज्ञपशूस—हिणहिणणारा वाजी, बलवानांत विजयी—इजा करू नकोस. अरण्यातील ‘गौर’ (गौरा) मी तुला अर्पण करतो; त्याने, आम्ही तुला चितीत असताना, आमच्या तनू (देह) मध्ये अंतःस्थ बस. गौर तुझी शुग् (दाहक उष्णता/पीडा) घेऊन जावो; ज्याचा आम्ही द्वेष करतो त्याच्यावर तुझी शुग् पडो.
इ॒मम् । मा । हि॒ᳪसीः । एक॑शफम् । प॒शुम् । क॒नि॒क्र॒दम् । वा॒जिन॑म् । वाजि॑नेषु । गौ॒रम् । आ॒र॒ण्यम् । अनु॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒न्वः॑ । नि । षी॑द । गौ॒रम् । ते॒ । शुक् । गृ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः । तम् । ते॒ । शुक् । गृ॒च्छ॒तु॒