अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभि ता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः । अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टि॑: सचताम्
apā́ṃ gambhán sīda má tvā sū́ryo’bhí tāpsīn mā́’gnír vaiśvānaráḥ | ácchinnapatrāḥ prajā́ anuvīkṣasvā́nu tvā divyā́ vṛ́ṣṭiḥ sacatām
तू पाण्यांच्या गाभ्यात स्थिर हो; सूर्य तुला तापवू नये, अग्नी वैश्वानरही नये. अछिन्न पानांसह प्रजांकडे अनुवीक्षण कर; आणि दिव्य वृष्टी तुझ्यासोबत राहो.
अ॒पाम् । गम्भ॑न् । सी॒द॒ । मा । त्वा॒ । सूर्यः॑ । अ॒भि । ता॒प्सी॒त् । मा । अ॒ग्निः । वै॒श्वा॒न॒रः । अच्छि॑न्न-पत्राः । प्र॒जाः । अ॒नु॒-वीक्ष॒स्व । अ॒नु॒ । त्वा॒ । दि॒व्या । वृष्टिः॑ । स॒च॒ता॒म्