अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑स्रुतः । इन्द्र॑स्य॒ युज्य॒: सखा॑
aśvíbhyāṃ pacyasva sárasvatyai pacyasvéndrā́ya sutrā́mṇe pacyasva | vāyúḥ pūtáḥ pavítreṇa pratyáṅ sómo átisrutaḥ | índrasya yújyaḥ sákhā
अश्विनांसाठी स्वतःला शिजव; सरस्वतीसाठी स्वतःला शिजव; सुत्राम्ण इंद्रासाठी स्वतःला शिजव. पवित्राने वायू शुद्ध झाला; प्रत्यङ्क् सोम अतिश्रुत (अतिछानलेला) झाला—इंद्रासाठी जुळवण्यास योग्य, योग्य सखा.
अश्विभ्याम् । पच्यस्व । सरस्वत्यै । पच्यस्व । इन्द्राय । सुत्राम्णे । पच्यस्व । वायुः । पूतः । पवित्रेण । प्रत्यङ् । सोमः । अतिस्रुतः । इन्द्रस्य । युज्यः । सखा