अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णो अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॒राज्य॑स्य वेतु॒ स्वाहा॑ स्वाहा॑कृता॒: सूर्य॑स्य र॒श्मिभि॑र्यतध्वᳪ सजा॒तानां॑ मध्य॒मेष्ठ्या॑य
agníḥ pṛthúr dhármaṇas-pátir juṣāṇó | agníḥ pṛthúr dhármaṇas-pátir rā́jyasya vetu svā́hā | svā́hā-kṛtāḥ sū́ryasya raśmíbhir yatadhvaṃ sajātā́nāṃ madhyaméṣṭhyāya
अग्नी—विस्तीर्ण, धर्माचा अधिपती—प्रसन्न होऊन स्वीकारो; अग्नी—विस्तीर्ण, धर्माचा अधिपती—राज्याधिकार प्राप्त करो. स्वाहा! स्वाहा करून अर्पित हे हविभागांनो, सूर्याच्या किरणांनी तुम्ही संयमित राहा—सहजातांमध्ये मध्यम श्रेष्ठत्वासाठी.
अग्निः । पृथुः । धर्मणः-पतिः । जुषाणः । अग्निः । पृथुः । धर्मणः-पतिः । राज्यस्य । वेतु । स्वाहा । स्वाहा-कृताः । सूर्यस्य । रश्मिभिः । यतध्वम् । स-जातानाम् । मध्यम-एष्ठ्याय