वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीय॑: । तृ॒तीय॑: पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॒दधात् पुरु॒त्रा
viśvákarmā hí ájaniṣṭa devá ā́did gándharvo abhavad dvitī́yaḥ | tṛtī́yaḥ pitā́ janitáuṣadhīnām apā́ṃ gárbhaṃ vyádadhāt purutrā́
വിശ്വകർമ്മൻ എന്ന ദേവൻ ജനിച്ചു; തുടർന്ന് ഗന്ധർവൻ രണ്ടാമനായിത്തീർന്നു. മൂന്നാമൻ പിതാവ്—ഔഷധികളുടെ ജനകൻ—ജലങ്ങളുടെ ഗർഭത്തെ പല സ്ഥലങ്ങളിലായി വ്യാപകമായി വിന്യസിച്ചു.
विश्वकर्मा । हि । अजनिष्ट । देवः । आत् । इत् । गन्धर्वः । अभवत् । द्वितीयः । तृतीयः । पिता । जनिता । ओषधीनाम् । अपाम् । गर्भम् । वि । अदधात् । पुरुत्रा