अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः । वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः । सूर्य॑: प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॒न्त्सूर्य॒: स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः
agníḥ paśúr āsīt ténāyajanta sá etáṃ lókām ajayad yásminn agníḥ sá te lóko bhaviṣyati táṃ jéṣyasi píba etā́ ápaḥ | vāyúḥ paśúr āsīt ténāyajanta sá etáṃ lókām ajayad yásmin vāyúḥ sá te lóko bhaviṣyati táṃ jéṣyasi píba etā́ ápaḥ | sū́ryaḥ paśúr āsīt ténāyajanta sá etáṃ lókām ajayad yásmin sū́ryaḥ sá te lóko bhaviṣyati táṃ jéṣyasi píba etā́ ápaḥ ||
ಅಗ್ನಿ ಒಮ್ಮೆ ಪಶು (ಯಜ್ಞಪಶು) ಆಗಿದ್ದ; ಅವನ ಮೂಲಕ ಅವರು ಯಜಿಸಿದರು; ಅದರಿಂದ ಅಗ್ನಿ ಇರುವ ಈ ಲೋಕವನ್ನು ಅವನು ಜಯಿಸಿದ. ಆ ಲೋಕ ನಿನಗಾಗುವುದು; ನೀನು ಅದನ್ನು ಜಯಿಸುವೆ—ಈ ನೀರನ್ನು ಕುಡಿ. ವಾಯು ಒಮ್ಮೆ ಪಶು ಆಗಿದ್ದ; ಅವನ ಮೂಲಕ ಅವರು ಯಜಿಸಿದರು; ಅದರಿಂದ ವಾಯು ಇರುವ ಈ ಲೋಕವನ್ನು ಅವನು ಜಯಿಸಿದ. ಆ ಲೋಕ ನಿನಗಾಗುವುದು; ನೀನು ಅದನ್ನು ಜಯಿಸುವೆ—ಈ ನೀರನ್ನು ಕುಡಿ. ಸೂರ್ಯ ಒಮ್ಮೆ ಪಶು ಆಗಿದ್ದ; ಅವನ ಮೂಲಕ ಅವರು ಯಜಿಸಿದರು; ಅದರಿಂದ ಸೂರ್ಯ ಇರುವ ಈ ಲೋಕವನ್ನು ಅವನು ಜಯಿಸಿದ. ಆ ಲೋಕ ನಿನಗಾಗುವುದು; ನೀನು ಅದನ್ನು ಜಯಿಸುವೆ—ಈ ನೀರನ್ನು ಕುಡಿ.
अग्निः । पशुः । आसीत् । तेन । अयजन्त । सः । एतम् । लोकम् । अजयत् । यस्मिन् । अग्निः । सः । ते । लोकः । भविष्यति । तम् । जेष्यसि । पिब । एताः । आपः । । वायुः । पशुः । आसीत् । तेन । अयजन्त । सः । एतम् । लोकम् । अजयत् । यस्मिन् । वायुः । सः । ते । लोकः । भविष्यति । तम् । जेष्यसि । पिब । एताः । आपः । । सूर्यः । पशुः । आसीत् । तेन । अयजन्त । सः । एतम् । लोकम् । अजयत् । यस्मिन् । सूर्यः । सः । ते । लोकः । भविष्यति । तम् । जेष्यसि । पिब । एताः । आपः ।