नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च
námo jyeṣṭhā́ya ca kaniṣṭhā́ya ca námaḥ pūrvajā́ya cāparajā́ya ca námo madhyamā́ya cāpagálbhāya ca námo jaghanyā̀ya ca budhnyā̀ya ca
ಜ್ಯೇಷ್ಠನಿಗೂ ಕನಿಷ್ಠನಿಗೂ ನಮಸ್ಕಾರ; ಪೂರ್ವಜನಿಗೂ ಅಪರಜನಿಗೂ ನಮಸ್ಕಾರ; ಮಧ್ಯಮನಿಗೂ ಅಪಗಲ್ಭನಿಗೂ ನಮಸ್ಕಾರ; ಜಘನ್ಯನಿಗೂ ಬುಧ್ನ್ಯನಿಗೂ ನಮಸ್ಕಾರ.
नमः । ज्येष्ठाय । च । कनिष्ठाय । च । नमः । पूर्वजाय । च । अपरजाय । च । नमः । मध्यमाय । च । अप-गल्भाय । च । नमः । जघन्याय । च । बुध्न्याय । च