इ॒दमा॑पः प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत् । यच्चा॑भिदु॒द्रोहानृ॑तं यच्च॑ शे॒पे अ॑भी॒रुण॑म् । आपो॑ मा॒ तस्मा॒देन॑सः पव॑मानश्च मुञ्चतु ।
idám ā́paḥ prá vahatāvadyaṃ ca málaṃ ca yát | yác cābhidudróhānṛ́taṃ yác ca śépe abhī́ruṇam | ā́po mā́ tásmād énasaḥ pávamānaś ca muñcatu |
O Waters, bear away from hence whatever fault and whatever filth there is; and whatever treachery and untruth there is, and whatever troubling taint is in the member. From that guilt may the Waters release me, and the Purifier also set me free.
इदम् । आपः । प्र । वहत । अवद्यम् । च । मलम् । च । यत् । यत् । च । अभि-दुद्रोह । अनृतम् । यत् । च । शेपे । अभीरुणम् । आपः । मा । तस्मात् । एनसः । पवमानः । च । मुञ्चतु ।