यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो॒ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः
yát púruṣeṇa havíṣā devā́ yajñám atanvata | vasantó ’syāsīd ā́jyaṃ grīṣmá idhmáḥ śarád dhavíḥ ||
When with the Puruṣa as oblation the gods stretched forth the sacrifice, Spring was its butter, Summer its fuel, and Autumn its offering.
यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत । वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरद् । हविः ।