त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
tryavíś ca me tryavī́ ca me dityavā́ṭ ca me dityauhī́ ca me pañcāvī́ś ca me pañcāvī́ ca me trivatsáś ca me trivatsā́ ca me turyavā́ṭ ca me turyauhī́ ca me yajñéna kalpantām
The three-year-old male and the three-year-old female; the two-year-old bull and the two-year-old heifer; the five-year-old male and the five-year-old female; the three-year calf and the three-year heifer; the four-year-old bull and the four-year-old heifer—may these, through the Sacrifice, be made fit and serviceable unto me.
त्र्यविः च मे । त्र्यवी च मे । दित्यवाट् च मे । दित्यौही च मे । पञ्चाविः च मे । पञ्चावी च मे । त्रिवत्सः च मे । त्रिवत्सा च मे । तुर्यवाट् च मे । तुर्यौही च मे । यज्ञेन कल्पन्ताम् ।