असौ॒ या सेना॑ मरुत॒: परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना । तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒ऽमी अ॒न्यो अ॒न्यं न जा॒नन्
asáu yā́ sénā marutaḥ párēṣām abhyáiti na ójasā spárdhamānā | tā́ṃ gū́hata támasā́pavraténa yáthā’mī́ anyó anyáṃ ná jānán
That host of theirs, O Maruts, which advances against us with might, contending,—that do ye hide with darkness, with perverse disorder, so that those men may not know one another.
असौ । या । सेना॑ । मरुतः । परे॑षाम् । अ॒भि । ए॒ति । नः । ओज॑सा । स्पर्ध॑माना । ताम् । गू॑हत । तम॒सा । अ॒प॒व्र॒ते॒न । यथा । अमी । अन्यः । अन्यम् । न । जानन्