अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑तान् नुद जातवेदः। अधि॑ नो ब्रूहि सु॒मना॒ अहे॑डँ॒स्तव॑ स्याम॒ शर्मँ॑स्त्रि॒वरू॑थ उ॒द्भौ
ágnē jātā́n prá ṇudā naḥ sapátnān prátyajātān nuda jātavedaḥ | ádhi no brūhi sumánā áheḍaṁs táva syāma śármaṁs trivarū́tha udbhāú
O Agni, drive thou forth our rivals that are born, and drive away those that are born against us, O Jātavedas. Declare thou over us, being gracious and unangered, that we may be thine, in shelter—thou of threefold defence—uplifted (and established).
अग्ने । जातान् । प्र । नुद । नः । सपत्नान् । प्रति-जातान् । नुद । जात-वेदः । अधि । नः । ब्रूहि । सु-मनाः । अ-हेडन् । तव । स्याम । शर्म । त्रि-वरूथः । उद्-भौ