अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तिं॒ नमो॑भिः । स पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हि॑ᳪसी॒रदि॑तिं वि॒राज॑म्
ájasram índum aruṣáṃ bhuraṇyúm agním īḍe pū́rvacittiṃ námobhiḥ | sá párvabhir ṛtuśáḥ kálpamāno gā́ṃ mā́ hiṃsīr áditiṃ virā́jam
Unceasing, bright, ruddy, swiftly-moving—Agni, the ancient-minded, I adore with reverences. As he is being fitted together, joint by joint, season by season, injure not the Cow—Aditi, the wide-ruling.
अजस्रम् । इन्दुम् । अरुषम् । भुरण्यम् । अग्निम् । ईडे । पूर्व-चित्तिम् । नमोभिः । सः । पर्वभिः । ऋतु-शः । कल्पमानः । गाम् । मा । हिंसीः । अदितिम् । विराजम्