अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪ रेता॑ᳪसि जिन्वति । इन्द्र॑स्य॒ त्वौज॑सा सादयामि
agnírmūrdhā́ diváḥ kakútpátiḥ pṛthivyā́ ayám | apā́ṃ rétāṃsi jinvatí | índrasya tvā́ ójasā sādáyāmi
Agni is the head of heaven, the lord of the world’s high ridge, even this (fire) of the earth; he quickeneth the seeds of the waters. With Indra’s might do I cause thee to be firmly seated.
अग्निः । मूर्धा । दिवः । ककुत्-पतिः । पृथिव्याः । अयम् । अपाम् । रेतांसि । जिन्वति । इन्द्रस्य । त्वा । ओजसा । सादयामि