यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ
yás te adyá kṛṇávad bhadrāśoce ’pū́paṃ deva ghṛtávantam agne | prá táṃ naya prataráṃ vásyo ácchā́bhi súmnaṃ devábhaktam yaviṣṭha ||
Whoso this day, O Agni of auspicious flame, hath made for thee the cake, O God, enriched with ghee,—lead thou that offering onward to a better, to a more excellent state; bring us, O youngest, the favour duly portioned to the Gods.
यः । ते । अद्य । कृणवत् । भद्र-शोचे । अपूपम् । देव । घृत-वन्तम् । अग्ने । प्र । तम् । नय । प्र-तरम् । वस्यः । अच्छ । अभि । सुम्नम् । देव-भक्तम् । यविष्ठ