दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामि । ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् । शि॒वं प्र॒जाभ्योऽहि॑ᳪसन्तं पृथि॒व्या: स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामः
devásya tvā savitúḥ prasavé’śvinór bāhúbhyāṃ pūṣṇó hástābhyām | pṛthivyā́ḥ sadhásthād agníṃ purīṣyám aṅgirasvát khanāmi | jyótiṣmantaṃ tvā’gne su-prátīkam ájasreṇa bhānúnā dī́dyatam | śiváṃ prajā́bhyo’hiṃsantaṃ pṛthivyā́ḥ sadhásthād agníṃ purīṣyám aṅgirasvát khanāmaḥ ||
At the impulsion of the god Savitṛ, with the arms of the Aśvins, with the hands of Pūṣan, from the earth’s firm seat I dig out Agni, the ‘purīṣya’, after the manner of the Aṅgirases. Thee, O Agni, light-possessing, fair-formed, ever with unfailing beam shining,—auspicious for the offspring, harmless,—from the earth’s firm seat we dig out Agni, the ‘purīṣya’, after the manner of the Aṅgirases.
देवस्य । त्वा । सवितुः । प्रसवे । अश्विनोः । बाहुभ्याम् । पूष्णः । हस्ताभ्याम् । पृथिव्याः । सधस्थात् । अग्निम् । पुरीष्यम् । अङ्गिरस्वत् । खनामि । ज्योतिष्मन्तम् । त्वा । अग्ने । सु-प्रतीकम् । अजस्रेण । भानुना । दीद्यतम् । शिवम् । प्रजाभ्यः । अहिंसन्तम् । पृथिव्याः । सधस्थात् । अग्निम् । पुरीष्यम् । अङ्गिरस्वत् । खनामः ।