
The Glory of Truthful Oaths and Keeping One’s Promise (Satya & Pratijñā)
シャウナカはスータに、約束を守る功徳と破る罪、また真実の誓いと虚偽の誓いの違いを問う。本章は、satya(真実)とpratijñā(誓約)を堅く守る者の功徳を大いに讃え、誓いを破る者には苛烈な地獄の報いがあると説き、その影響が一族とpitṛ(祖霊)にまで及ぶと述べる。 譬えとして、シュードラのヴィーラヴィクラマが、変装して来たブラーフマナの求婚者に娘を嫁がせると約し、その証として右手を質に入れる物語が語られる。親族や長老(ジャナカを含む)は身分や礼法を理由に反対するが、彼は「誓いに差し出した右手は取り戻せない」として撤回を拒む。 するとヴィシュヌ/クリシュナがガルダに乗って顕現し、彼の真実と「右手」を称賛し、一族をヴァイクンタへと引き上げる。かくして、真実の誓約を守ること自体が直截のバクティの道であり、本人のみならず家系全体を救う力を持つと確立される。
Verse 1
शौनक उवाच । श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम् । प्रतिज्ञापालने पुण्यं खंडने किं च किल्बिषम्
シャウナカは言った。「賢者よ、私は聞きたい。根本の由来とともに、余すところなく語ってください。誓いを守ることの功徳はいかほどで、破ることの罪はいかほどでしょうか。」
Verse 2
अनृते शपथे किं वा सत्ये किंचिद्भवेन्मुने । दक्षिणं किंकरं दत्वा कृपां कृत्वा कृपार्णव
「牟尼よ、偽りの誓いはどのような果報を生み、真実の誓いは何をもたらすのでしょうか。慈悲の大海よ—従者にダクシナー(謝礼)を与え、憐れみを施して…」
Verse 3
सूत उवाच । शृणुष्व मुनिशार्दूल कथयामि समूलतः । वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः
スータは言った。「聞きなさい、賢者たちの虎よ。私はこれを根本から語ろう。ヴァイシュナヴァの中であなたは最も勝れ、あらゆる世界の利益に心を尽くしている。」
Verse 4
धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः । तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज
「二度生まれの者(ブラーフマナ)よ、人が百頭の牛を施して得る功徳がいかほどであれ、誓いを守る功徳はそれのコーティ倍(千万倍)に勝る。」
Verse 5
प्रतिज्ञाखंडनान्मूढो निरयं याति दारुणम् । शतमन्वंतरं यावत्पच्यते नात्र संशयः
「厳粛な誓願を破れば、愚かな者は恐るべき地獄へ赴き、百のマヌヴァンタラのあいだ焼かれ苦しむ。これに疑いはない。」
Verse 6
ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने । अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा
それからここで貧者の家に生まれ、食と衣に欠け、自らの業の報いとして苦しみを受ける。
Verse 7
सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ । तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते
誓いは真実によってのみ立てよ。神々と聖火と師の御前において。真実が保たれるかぎり、身は罪報に焼かれず、ヴィシュヌの系譜も断たれない。
Verse 8
मिथ्यायां शपथे विप्र किमहं वच्मि सांप्रतम् । शतमन्वंतरं विप्र निरयं मिथ्यया किमु
婆羅門よ、偽りの誓いについて今何を語ろうか。百のマンヴァンタラにわたり、婆羅門よ、虚言の果ては地獄以外に何があろう。
Verse 9
निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुंगव । गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम्
サティエナよ、牟尼の中の最勝者よ。シュリー・ハリの捨てられた供物(ニルマーリヤ)に触れて持ち去る者は、七人をも引き落とし、久しく地獄で責め苦を受ける。
Verse 10
कदाचिज्जन्म संप्राप्य कुष्ठी च प्रतिजन्मनि । सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते
たまにしか人として生を得られず、しかも生まれるたびに癩病を患う。婆羅門よ、真実でさえこのようなら、偽りについては何と言うべきであろうか。
Verse 11
यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते । तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम्
定められたダクシナー(dakṣiṇā)を捧げ、その誓約を正しく守り敬う者には、クリシュナが到達し得るものとなる。真実、真実と、我は宣言する。
Verse 12
करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम् । तावन्न कुर्यात्पितरः प्राप्नुवंति च यातनाम्
手を差し出して誓いながら言葉を守らぬ者は——それを果たさぬかぎり——その祖霊(ピトリ pitṛs)までも苦しみと責め苦を受ける。
Verse 13
स्वयं तु मुनिशार्दूल निरयं चातिदारुणम् । उद्धारं कोटिपुरुषैर्मृतो याति न संशयः
しかし彼自身は、賢者の中の虎よ、きわめて凄惨なる地獄へ赴く。死後の救済は、無数(クロール)もの人々の尽力によってのみ得られる—疑いはない。
Verse 14
शौनक उवाच । कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात् । दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात्
シャウナカは言った。「聖仙よ、謹んでお尋ねする。いにしえに、牟尼ダクシナ(Dakṣiṇa)の『手』(誓約)を正しく守り敬うことによって、誰がクリシュナに到達したのか。敬虔に聞きたい。」
Verse 15
सूत उवाच । पुरा किंचित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः । बह्वाशी पृथुलांगश्च बहुवक्तातिसुंदरः
スータは言った。昔、ある都に、ヴィーラヴィクラマ(Vīravikrama)という名のシュードラがいた。大食で、体つきは逞しく、たいへん饒舌で、容姿はこの上なく麗しかった。
Verse 16
धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः । विप्राणामतिथीनां च पूजकः सर्वदैव तु
彼は富み、子に恵まれ、礼節と学識を備え、万人に愛される。そして常にブラーフマナと客人を礼拝し、敬いもてなす。
Verse 17
पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा । वाचां गुरुजनानां च पालको हरिसेवकः
おお最勝の二度生まれよ。彼は祖霊に篤く、常に誓いを守り、長老と師の言葉を護り、ハリに仕える者である。
Verse 18
एकदा सुंदरो गेहं श्वपचस्तस्य छद्मना । प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः
ある時、容姿端麗で賢明な若者が、偽装してその「犬を煮る者」(賤民)の家に赴き、ブラーフマナの姿を取った。
Verse 19
ब्राह्मण उवाच । शृणु मे वचनं धीर मम जाया मृता शुभा । किं करोमि क्व गच्छामि कथयाद्यानुकंपया
ブラーフマナは言った。「堅き心の者よ、我が言葉を聞け。わが善き妻は亡くなった。私は何をなすべきか、どこへ行くべきか。憐れみをもって告げよ。」
Verse 20
विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः । किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः
婆羅門の婚礼を執り行う者—ことさらに—布施に何の要があろう、聖地巡礼に何の要があろう、祭祀に何の要があろう、ましてや無数の誓願に何の要があろうか。
Verse 21
इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः । शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका
これを聞いて、その勇猛なる者はバラモンに語った。「おお婆羅門よ、わが言葉を聞け。わたしには幼き乙女、わが娘がいる。」
Verse 22
यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम् । नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि
婆羅門よ、もしそれが汝の望みなら、正しい儀礼に従って授けよう。わが右手を取れ;そのように与える—それ以外ではない。
Verse 23
तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम् । श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति
その言葉を聞くと、シュヴァパカ(賤民)は歓喜して彼の右手を取り、そして返答して言った。
Verse 24
ब्राह्मण उवाच । कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम् । विलंबे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम्
バラモンは言った。「わたしのために吉祥の時を定め、吉兆を具えた乙女を与えよ。経典(シャーストラ)には、遅延すれば多くの障碍が起こると定められている。」
Verse 25
वीरविक्रम उवाच । तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा । दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः
ヴィーラヴィクラマは言った。「婆羅門よ、明日その乙女を汝に授けよう—他の道はない。右手を誓約として差し出した以上、これを果たさぬのは最も卑しき者のみだ。」
Verse 26
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे । षडिंवशतितमोऽध्यायः
かくして、吉祥なる『パドマ・マハープラーナ』ブラフマ・カーンダにおけるスータとシャウナカの対話、その第26章はここに終わる。
Verse 27
कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि । अज्ञातायाकुलीनाय न ददस्व विशेषतः
いかにして汝は、ブラーフマナでありながら、娘をシュードラに与えようとするのか。とりわけ、素性も知られず高き家柄なき者には与えてはならぬ。
Verse 28
ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन । अस्माकं वचनं तात शृणुष्व वीरविक्रम
ジャナカらをはじめとする一同の親族は言った。「苦行の宝に富む修行者よ、愛しき子よ、われらの言葉を聞け。大いなる武勇の英雄よ。」
Verse 29
न ज्ञायते कुलं यस्य देशगोत्रधनं तथा । शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते
家柄の知れぬ者、またその国・ゴートラ・財、さらに品行と年齢も明らかでない者には、身内は娘を嫁がせない。
Verse 30
स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम् । कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा
彼は言った。「二度生まれの最勝者よ、我が右手はすでに誓いとして差し出された。いかなる時も、いかなる仕方でも、これに背くことはできぬ。」
Verse 31
इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे । दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः
そう言い終えると、彼はそのバラモンに乙女を授け始めた。これを見た一同の親族は、驚嘆すべき不思議に打たれた。
Verse 32
सत्यं तद्वचनं श्रुत्वा शंखचक्रगदाधरः । आविर्बभूव सहसा चारुह्य गरुडं मुने
その真実の言葉を聞くや、法螺貝・円盤・棍棒を持つ主は、たちまち顕現し、ガルダに乗って現れた、聖仙よ。
Verse 33
श्रीभगवानुवाच । धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता । धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम्
世尊は仰せになった。「汝も汝の家系も福徳に満ち、汝のダルマもまた福徳に満ちる。汝の母と父は祝福されている。汝の真実の言葉は祝福され、汝の右の手も祝福される。」
Verse 34
धन्यं कर्म्म च ते जन्म त्रैलोक्ये नैव विद्यते । एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम्
汝の行いは祝福され、汝の生誕もまた祝福される——三界に比ぶものはない。このような行為によって、善き人よ、汝は一族を救い上げる。
Verse 35
सूत उवाच । एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम् । आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम्
スータは語った。シュリー・クリシュナがこのように語っていると、黄金で造られたヴィマーナが到来し、ハリの従者たちを伴い、至るところにガルダの印の旗を掲げていた。
Verse 36
सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम् । रथे चारोपयामास शंखपद्मधरः स्वयं
婆羅門よ、法螺と蓮華を携える彼自らが、その男の一族すべてを、さらに一族の祭司としてのチャンダーラさえ伴わせて、戦車に乗せた。
Verse 37
गृहीत्वा तान्हरिः सर्वान्गतो वैकुंठमंदिरम् । तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम्
ハリは彼らすべてを伴ってヴァイクンタの宮殿の聖殿へ赴いた。そこで久しく留まり、彼らもまた、きわめて稀なる神聖な歓喜を味わった。
Verse 38
वचनं लंघयेद्यस्तु यस्तु वा दक्षिणं करम् । सकुलो निरयं याति सत्यं सत्यं वदाम्यहम्
与えた言葉を踏みにじる者、あるいは誓いの右手を破る者は、一族もろとも地獄に堕ちる。真実、真実と、私は宣言する。
Verse 39
तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः । त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम
しかし婆羅門よ、その者の食と水は祖霊(ピトリ)の神々に受け入れられない。ダルマはその家を捨て、恐れのゆえに去ってゆく、二度生まれし者の最勝よ。
Verse 40
दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः । स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत्
愚かな心で、まず希望を与えながら後に絶望を生じさせる者は、自らの無数の人々を伴って地獄へ赴く。
Verse 41
वचनं लंघयेद्यस्तु धर्मस्तस्य विलंघति । नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम्
授けた言葉を破る者は、ダルマそのものに見捨てられる。おおブラーフマナよ、これは堅く定まった真理である――王によって、火によって、そして盗賊によって。
Verse 42
स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत् । जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम्
この「天をも超える」至上の境地の教えを正しく聞いた者は、天界を越えたその境地に至る。生きながらに解脱者(ジーヴァンムクタ)となり、此の世においても彼の世においても、クリシュナと名づけられる最上の住処(ダーマ)に到る。