Adhyaya 4
Skandha 2 - Cosmic Dissolution & RebirthAdhyaya 41 Verses

Adhyaya 4

Devavratotpatti Varnanam

この章で、スータはシャンタヌ王と女神ガンガーの物語を語ります。狩りの最中、シャンタヌは魅惑的な乙女に出会い、結婚を申し込みます。彼女は、彼が自分の行動を決して疑わないという条件で同意します。時が経つにつれ、彼女は呪われたヴァス神族である7人の息子を産み、それぞれを川に沈めてヴァシシュタ仙人の呪いから解放します。8番目の息子が生まれたとき、苦悩したシャンタヌは彼女を止めます。ガンガーは自らの神聖な正体を明かし、ヴァス神族の呪いについて説明し、約束が破られたために去ることを宣言します。彼女は8番目の息子を連れて行きます。数年後、彼女はデーヴァヴラタ(またはガンゲーヤ)と名付けられた少年を連れ戻します。彼はヴァシシュタ仙人とパラシュラーマから弓術とヴェーダの高度な教育を受けていました。シャンタヌは喜んで彼をハスティナープラに連れ帰り、ユヴァラージャ(皇太子)として即位させます。

Shlokas

Verse 999

देवव्रतोत्पतिवर्णनम् सूत उवाच ।। प्रतीपेऽथ दिवं याते शंतनुः सत्यविक्रमः ।। बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः । । १ ।। स कदाचिद्वने घोरे गंगातीरे चरन्नृपः ।। ददर्श मृगशावाक्षीं सुंदरीं चारुभूषणाम् । । २ ।। दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ।। रूपयौवनसंपन्ना साक्षाल्लक्ष्मीरिवापरा । । ३ ।। पिबन्मुखांबुजं तस्या न तृप्तिमग्मन्नृपः ।। हृष्टरोमाऽभवत्तत्र व्याप्तचित्त इवानघ । । ४ ।। महाभिषं साऽपि मत्वा प्रेमयुक्ता बभूव ह ।। किंचिन्मंदस्मितं कृत्वा तस्थावग्रे नृपस्य च ।।५।। वीक्ष्य तामसितापांगीं राजा प्रीतमना भृशम् ।। उवाच मधुरं वाक्यं सांत्वयञ्छ्लक्ष्णया गिरा । । ६ ।। देवी वा त्वं च वामोरु मानुषी वा वरानने ।। गंधर्वी वाऽथ यक्षी वा नागकन्याऽप्सराऽपि वा । । ७ ।। याऽसि काऽसि वरारोहे भार्या मे भव सुंदरि ।। प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे । । ८ ।। सूत उवाच ।। राजा तां नाभिजानाति गंगेयमिति निश्चितम् ।। महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी । । ९ ।। पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ।। उवाच नारी राजानं स्मितपूर्वमिदं वचः । । 2.4.१० ।। स्त्र्युवाच ।। जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ।। का न वांछति चार्वंगी भावित्वात्सदृशं पतिम् । । ११ ।। वाग्बंधेन नृपश्रेष्ठ चरिष्यामि पतिं किल ।। शृणु मे समयं राजन्वृणोमि त्वां नृपोत्तम । । १२ ।। यच्च कुर्यामहं कार्यं शुभं वा यदि वाऽशुभम् ।। न निषेध्या त्वया राजन्न वक्तव्यं तथाऽप्रियम् ।।१३।। यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ।। तदा मुक्त्वा गमिष्यामि यथेष्टं देश मारिष ।।१४।। स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ।। महाभिषस्य प्रेमार्थं विचिंत्यैव च जाह्नवी । । १५ ।। तथेत्युक्ताऽथ सा देवी चकार नृपतिं पतिम् ।। एवं वृता नृपेणाथ गंगा मानुषरूपिणी । । १६ ।। नृपस्य मंदिरं प्राप्ता सुभगा वरवर्णिनी ।। नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे । । १७ ।। साऽपि तं रमयामास भावज्ञा वै वरांगना ।। न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ । । १८ ।। स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ।। सा सर्वगुणसंपन्न सोऽपि कामविचक्षणः । । १९ ।। रेमाते मंदिरे दिव्ये रमाना रायणाविव ।। एवं गच्छति काले सा दधार नृपतेस्तदा । । 2.4.२० ।। गर्भं गंगा वसुं पुत्रं सुषुवे चारुलोचना ।। जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके । । २१ ।। तृतीयेऽथ चतुर्थेऽथ पंचमे षष्ठ एव च ।। सप्तमे वा हते पुत्रे राजा चिंतापरोऽभवत् । । २२ ।। किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ।। सप्त पुत्रा हता नूनमनया पापरूपया ।।२३।। निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ।। अष्टमोऽयं सुसंप्राप्तो गर्भो मे मनसीप्सितः ।।२४।। न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ।। भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ।।२५।। संभवेऽपि च दुष्टेयं रक्षयेद्वा न रक्षयेत् ।। एवं संशयिते कार्ये किं कर्तव्यं मयाऽधुना । । २६ ।। वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ।। ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः । । २७ ।। मुनेर्येन हृता धेनुर्नंदिनी स्त्रीजितेन हि ।। तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ।।२८।। दासोऽस्मि तव तन्वंगि प्रार्थयामि शुचिस्मिते ।। पुत्रमेकं पुषाम्यद्य देहि जीवंतमद्य मे । । २९ ।। हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ।। अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः।।2.4.३०।। अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् ।। वंशो मे रक्षणीयोऽद्य त्वया परमशोभने । । ३१ ।। अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः ।। तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् । । ३२ ।। इत्युक्ताऽपि गृहीत्वा तं यदा गंतुं समुत्सुका ।। तदाऽपि कुपितो राजा तामुवाचातिदुःखितः ।।३३।। पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् ।। काऽसि पापकराणां त्वं पुत्री पापरता सदा । । ३४ ।। यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह ।। किं करोमि त्वया पापे वंशांतकरयाऽनया । । ३५ ।। एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् ।। गच्छंती वचनं कोपसंयुक्ता तमुवाच ह । । ३६ ।। पुत्रकामा सुतं त्वेनं पालयामि वने गता ।। समयो मे गमिष्यामि वचनं ह्यन्यथा कृतम् । । ३७ ।। गगां मां वै विजानीहि देवकार्यार्थमागताम् ।। वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना । । ३८ ।। व्रजंतु मानुषी योनिं स्थितां चिंतातुरास्तु माम् ।। दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघ ।।३९।। तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम ।। देवकार्यार्थसिद्ध्यर्थ जानीहि संभवो मम । । 2.4.४० ।। सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते ।। कियंतं कालमेकोऽयं तव पुत्रो भविष्यति ।।४१।। गंगादत्तमिमं पुत्रं गृहाण शंतनो स्वयम् ।। वसु देवं विदित्वैनं सुखं भुंक्ष्व सुतोद्भवम् ।।४२।। गांगेयोऽयं महाभाग भविष्यति बलाधिकः ।। अद्य तत्र नयाम्येनं यत्र त्व वै मया वृतः । । ४३ ।। दास्यामि यौवनप्राप्तं पालयित्वा महीपते ।। न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् । । ४४ ।। इत्युक्ताऽन्तर्दधे गंगा तं गृहीत्वा च बालकम् ।। राजा चातीव दुःखार्तः संस्थितो निजमंदिरे । । ४५ ।। भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् ।। सर्वदा चिंतयन्नास्ते राज्यं कुर्वन्महीपतिः । । ४६ ।। एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः ।। निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि । । ४७ ।। गंगातीरमनुप्राप्तः स राजा शंतनुस्तदा ।। नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः । । । । ४८ ।। तत्रापश्यत्कुमारं तं मुंचंतं विशिखान्बहून् ।। आकृष्य च महाचापं क्रीडंतं सरितस्तटे । । ४९ ।। तं वीक्ष्य विस्मितो राजा न स्म जानाति किंचन ।। नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा । । 2.4.५० ।। दृष्ट्वाऽप्यमानुषं कर्म बाणेषु लघुहस्तताम् ।। विद्यां वाऽप्रतिमां रूपं तस्य वै स्मरसन्निभम् । । ५१ ।। पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ ।। नोवाच किंचिद्वीरोऽसौ मुंचञ्छिलीमुखानथ । । ५२ ।। अंतर्धानं गतः सोऽथ राजा चिंतातुरोऽभवत् ।। कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् । । ५३ ।। गंगां तुष्टाव भूपालः स्थितस्तत्र समाहितः ।। दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा । । ५४ ।। दृष्ट्वा तां चारुसर्वांगीं बभाषे नृपतिः स्वयम् ।। कोऽयं गंगे गतो बालो मम त्वं दर्शयाधुना । । ५५ ।। गंगोवाच । । पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः ।। ददामि तव हस्ते तु गांगेयोऽयं महातपाः । । ५६ ।। कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रतः ।। पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् । । ५७ ।। वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव।। सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः । । ५८ ।। यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव ।। गृहाण गच्छ राजेंद्र सुखी भव नराधिप । । ५९ ।। इत्युक्वांऽतर्दधे गंगा दत्त्वा पुत्रं नृपाय वै ।। नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः । । 2.4.६० ।। समालिंग्य सुतं राजा समाघ्राय च मस्तकम् ।। समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ।।६१।। गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् ।। दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् । । ६२ ।। समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् ।। यौवराज्येऽथ गांगेयं स्थापयामास पार्थिवः । । ६३ ।। कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् ।। सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् । । ६४ ।। सूत उवाच ।। एतद्वः कथितं सर्वं कारणं वसुशापजम् ।। गांगेयस्य तथोत्पत्तिं जाह्नव्याः संभवं तथा । । ६५ ।। गंगावतरणं पुण्यं वसूनां संभवं तथा ।। यः शृणोति नरः पापान्मुच्यते नात्र संशयः । । ६६ ।। पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमः ।। यथाश्रुतं व्यासात्पुराणं वेदसंमितम् । । ६७ ।। श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् ।। द्वैपायनमुखोद्भूतं पंच लक्षणसंयुतम् । । ६८ ।। शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा ।। इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमः । । ६९ ।। इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः

スータはデーヴァヴラタ(ビーシュマ)の誕生を語ります。プラティーパ王の崩御後、シャンタヌ王は人間の姿をした川の女神ガンガーに出会いました。王は彼女に魅了され、彼女の行動を決して問わないという条件で結婚しました。彼女は8人の息子(ヴァス神群)を産み、最初の7人を聖者ヴァシシュタの呪いから解放するために溺れさせました。彼女が8人目を溺れさせようとしたとき、シャンタヌは彼女を止めました。ガンガーは正体を明かし、呪いについて説明し、8番目の息子を連れて去りました。数年後、彼女はヴァシシュタとパラシュラーマのもとですべての武器とヴェーダを習得した青年デーヴァヴラタを返しました。シャンタヌは喜んで彼をハスティナープラに連れ帰り、皇太子に任命しました。このように、『シュリーマド・デーヴィー・バーガヴァタ』第2巻第4章「デーヴァヴラタの誕生」は終わります。

Frequently Asked Questions

Ganga drowned her seven sons to quickly liberate the Ashta Vasus from Sage Vashistha's curse, which forced them to be born as humans.

Ganga stipulated that Shantanu must never question or stop any of her actions, whether good or bad, otherwise she would leave him immediately.

The eighth son was Devavrata, also known as Gangeya and later Bhishma, who was educated in the Vedas and archery by Sage Vashistha and Parashurama.

Read Devi Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App