Katharudra
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् । योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः । ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः । योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः । तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥ आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् । तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् । यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥
अस्थि-स्नायु-आदि-रूपः अयम् शरीरम् भाति देहिनाम् । यः अयम् अन्न-मयः हि आत्मा भाति सर्व-शरीरिणः ॥ ततः प्राण-मयः हि आत्मा विभिन्नः च अन्तरः स्थितः । ततः विज्ञानः आत्मा तु ततः अन्यः च अन्तरः स्वतः ॥ आनन्द-मयः आत्मा तु ततः अन्यः च अन्तर-स्थितः । यः अयम् अन्न-मयः सः अयम् पूर्णः प्राण-मयेन तु ॥ मनो-मयेन प्राणः अपि तथा पूर्णः स्व-भावतः । तथा मनो-मयः हि आत्मा पूर्णः ज्ञान-मयेन तु ॥ आनन्देन सदा पूर्णः सदा ज्ञान-मयः सुखम् । तथा आनन्द-मयः च अपि ब्रह्मणः अन्येन साक्षिणा ॥ सर्व-अन्तरेण पूर्णः च ब्रह्म न अन्येन केनचित् । यत् इदम् ब्रह्म-पुच्छ-आख्यम् सत्य-ज्ञान-द्वय-आत्मकम् ॥
asthisnāyuvādirūpo ’yaṃ śarīraṃ bhāti dehinām | yo ’yam annamayo hy ātmā bhāti sarvaśarīriṇaḥ || tataḥ prāṇamayo hy ātmā bhinnaś cāntaraḥ sthitaḥ | tato vijñāna ātmā tu tato ’nyaś cāntaraḥ svataḥ || ānandamaya ātmā tu tato ’nyaś cāntarasthitaḥ | yo ’yam annamayaḥ so ’yaṃ pūrṇaḥ prāṇamayena tu || manomayena prāṇo ’pi tathā pūrṇaḥ svabhāvataḥ | tathā manomayo hy ātmā pūrṇo jñānamayena tu || ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham | tathānandamayaś cāpi brahmaṇo ’nyena sākṣiṇā || sarvāntareṇa pūrṇaś ca brahma nānyena kenacit | yad idaṃ brahmapucchākhyaṃ satyajñānadvayātmakam ||
Ajaran ini diulang: tubuh dari tulang dan urat ini diliputi oleh Diri makanan (annamaya); di dalamnya ada Diri prāṇa (prāṇamaya) yang berbeda; di dalamnya ada Diri vijñāna; di dalamnya ada Diri ānanda; dan melampaui bahkan ānanda ada Brahman sebagai Saksi batin, penuh di dalam segala sesuatu, disebut ‘brahmapuccha’, ditandai sebagai satya dan jñāna.
This repeats the teaching that the body of bone and sinew is pervaded by the food-self; within it is the distinct vital-breath-self; within that the cognition-self; within that the bliss-self; and beyond even bliss is Brahman as the inner witness, full within all, called the ‘Brahman-tail,’ characterized as truth and knowledge.