ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ । तेन॑ नो वाजि॒न् वल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः । वाजि॑नो वाजजितो॒ वाज॑ᳪ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत
javó yás te vājinn ihíto gúhā yáḥ śyéne parī́tto ácarac ca vā́te | téna no vājin válavān bálenā vājájic ca bhava sámane ca pārayiṣṇúḥ | vājíno vājajitó vā́jaṃ sariṣyánto bṛ́haspáter bhā́gam áva jighrata
Kecepatanmu itu, wahai pemenang hadiah, yang tersimpan rahasia; yang, dilingkupi laksana elang, telah bergerak bahkan di dalam angin—dengan itu, wahai pemenang hadiah, jadilah engkau kuat dengan kekuatan, pemenang hadiah, dan yang menembus hingga tuntas dalam pertemuan. Wahai para pemenang hadiah, yang memenangkan hadiah, berlarilah menuju bagian Bṛhaspati.
ज॒वः । यः । ते॒ । वा॒जि॒न् । नि॒हि॒तः । गुहा॑ । यः । श्ये॒ने । परी॑त्तः । अच॑रत् । च॒ । वाते॑ । तेन॑ । नः॒ । वा॒जि॒न् । वल॑वान् । बले॑न । वाज॒जित् । च॒ । भव॑ । सम॑ने । च॒ । पा॒र॒यि॒ष्णुः । वाजि॑नः । वाज॒जितः । वाज॑म् । स॒रि॒ष्यन्तः । बृह॒स्पतेः॑ । भा॒गम् । अव॑ । जि॒घ्र॒त