यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु
yát·prajñā́nam·utá·céto·dhṛ́tiś·ca·yáj·jyótiḥ·antár·amṛ́tam·prajā́su | yásmān·na·ṛté·kíṃ·cána·kárma·kriyáte·tán·me·máṇaḥ·śivá-saṅkalpam·astu
Yang merupakan pengertian, juga pikiran dan keteguhan; yang merupakan cahaya batin, yang abadi di dalam makhluk-makhluk; tanpa-Nya tiada satu pun karma (ritus) dilakukan—semoga manasku ini berketetapan yang suci dan mujur.
यत् । प्रज्ञानम् । उत । चेतः । धृतिः । च । यत् । ज्योतिः । अन्तरम् । अमृतम् । प्रजासु । यस्मात् । न । ऋते । किम् । चन । कर्म । क्रियते । तत् । मे । मनः । शिव-सङ्कल्पम् । अस्तु ।