सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ कै॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लᳪ स्वने॑भ्य॒: पर्ण॑कं॒ गुहा॑भ्य॒: किरा॑त॒ᳪ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम्
saróbhyo dhaivarám upasthā́varābhyo dāśáṃ vaiśántābhyo baindáṃ naḍvalā́bhyaḥ śauṣkálaṃ pārā́ya mārgārám avārā́ya kaivártaṃ tī́rthebhya āndáṃ víṣamebhyo maināláṃ svanébhyaḥ párṇakaṃ guhā́bhyaḥ kirātáṃ sānúbhyo jambhákam párvatebhyaḥ kimpū́ruṣam
Kepada kolam-kolam: sang nelayan; kepada tepian perairan: sang pengair/pendayung; kepada ruas-ruas sungai: orang Bainda; kepada rimbun gelagah: si pengering ikan; kepada seberang jauh: sang pencari jalan; kepada seberang dekat: sang pengemudi perahu; kepada tempat penyeberangan: sang penyeberang; kepada tempat yang terjal: Maināla; kepada bunyi yang bergema: yang berselimut daun; kepada gua-gua: sang Kirāta; kepada lereng-lereng: Jambhaka; kepada gunung-gunung: Kimpūruṣa.
सरोभ्यः । धैवरम् । उपस्थावराभ्यः । दाशम् । वैशन्ताभ्यः । बैन्दम् । नड्वलाभ्यः । शौष्कलम् । पाराय । मार्गारम् । अवाराय । कैवर्तम् । तीर्थेभ्यः । आन्दम् । विषमेभ्यः । मैनालम् । स्वनेभ्यः । पर्णकम् । गुहाभ्यः । किरातम् । सानुभ्यः । जम्भकम् । पर्वतेभ्यः । किम्पूरुषम् ।