अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ग्ने॒ऽहं गृ॒हप॑तिना भूयासᳪ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः । अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तᳪ हिमा॒: सूर्य॑स्या॒वृत॒मन्वाव॑र्ते
ágnē gṛhapatē sugṛhapatís tváyāgnē ’háṃ gṛhápatinā bhūyāsaṃ sugṛhapatís tváṃ máyāgnē gṛhápatinā bhūyāḥ | ásthūri nau gārhapatyā́ni santu śatáṃ himā́ḥ sū́ryasyā́vṛtám ánvāvartē
Wahai Agni, Tuan rumah! Bersamamu, wahai Agni, semoga aku menjadi tuan rumah yang baik; bersamaku, wahai Agni, semoga engkau menjadi tuan rumah yang baik. Semoga bagi kita berdua, hal-hal Gārhapatya tetap utuh tak terputus; selama seratus musim dingin, perjalanan kembali Sang Surya mengikuti putarannya.
अग्ने । गृह-पते । सु-गृह-पतिः । त्वया । अग्ने । अहम् । गृह-पतिना । भूयासम् । सु-गृह-पतिः । त्वम् । मया । अग्ने । गृह-पतिना । भूयाः । अ-स्थूरि । नौ । गार्ह-पत्यानि । सन्तु । शतम् । हिमाः । सूर्यस्य । आवृतम् । अनु-आ-वर्ते