वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भू॑याः । देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः
védo ’si yéna tváṃ deva veda devébhyo védo ’bhavas téna máhyaṃ védo bhūyāḥ | devā gātu-vido gātúṃ vittvā gātúm ita | mánasas-pate imáṃ deva yajñáṃ svā́hā vā́te dhāḥ
Engkaulah Veda: dengan itu—wahai dewa—engkau mengetahui, dan dengan itu engkau menjadi Veda bagi para dewa; dengan itu semoga Veda menjadi bagiku. Wahai para dewa, para pengetahu jalan, setelah menemukan jalan, berjalanlah di jalan itu. Wahai Penguasa Manas (Manaspati), wahai dewa, tempatkanlah yajña ini—Svāhā!—di dalam Angin (Vāta).
वेदः । असि । येन । त्वम् । देव । वेद । देवेभ्यः । वेदः । अभवः । तेन । मह्यम् । वेदः । भूयाः । देवाḥ । गातु-विदः । गातुम् । वित्त्वा । गातुम् । इत । मनसः-पते । इमम् । देव । यज्ञम् । स्वाहा । वाते । धाः