किᳪस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थाऽऽसी॑त् । यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः
kíṃ svíd āsīd adhiṣṭhā́nam ārambháṇaṃ katamátsvít kathā́ āsīt | yató bhū́miṃ janáyan viśvákarmā́ ví dyā́m aurṇon mahínā́ viśvácakṣāḥ ||
WJVS_866
किम् स्वित् आसीत् अधिष्ठानम् । आरम्भणम् कतमम् स्वित् कथा आसीत् । यतः भूमिम् जनयन् विश्वकर्मा । वि द्याम् और्णोत् महिना विश्व-चक्षाः ।