ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि
yé vṛkṣéṣu śaṣpíñjarā nī́lagrīvā vilóhitāḥ | téṣāṃ sahasrayojané’vá dhánvāni tánmasi
WJVS_840
ये । वृ॒क्षेषु॑ । श॒ष्पिञ्ज॑राः । नील॑-ग्रीवाः । वि-लो॑हिताः । तेषा॑म् । स॒हस्र-यो॒ज॒ने । अव॒ । धन्वा॑नि । तत् । म॒सि ।