अ॒यं पु॒रो हरि॑केश॒: सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ॒ | पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णव॑: प॒शवो॑ हे॒तिः पौ॑रुषेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
ayaṁ puraḥ harikeśaḥ sūryaraśmiḥ tasya rathagr̥tsaś ca rathaujāś ca senānīgrāmaṇyau | puñjikāsthalā ca kratusthalā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ tebhyo namo astu te no ’vantu te no mr̥ḍayantu te yaṁ dviṣmo yaś ca no dveṣṭi tameṣāṁ jambhe dadhmaḥ
Yang di depan ini adalah Harikeśa, sinar Surya; miliknya Rathagṛtsa dan Rathaujās, dua pemimpin: sang senānī (panglima) dan sang grāmaṇī (kepala rombongan). Puñjikāsthalā dan Kratusthalā adalah dua Apsaras; hewan-hewan penggigit adalah ternaknya; miliknya Senjata; pembantaian yang dikirim manusia (pauruṣeya vadha); dan senjata yang dilemparkan (praheti). Kepada mereka hormat: semoga mereka melindungi kami; semoga mereka berbelas kasih kepada kami. Dia yang kami benci dan dia yang membenci kami—dia itu kami tempatkan ke dalam rahang mereka.
अ॒यम् । पु॒रः । हरि॑-केशः । सूर्य॑-रश्मिः । तस्य॑ । रथ-गृ॒त्सः । च । रथ-ओ॒जाः । च । सेनानी-ग्राम॒ण्यौ॒ । पु॒ञ्जि॒क॒स्थ॒ला । च । क्रतु-स्थ॒ला । च । अ॒प्स॒रसौ॑ । द॒ङ्क्ष्णवः॑ । प॒शवः॑ । हे॒तिः । पौ॑रुषेयः । व॒धः । प्र-हे॑तिः । तेभ्यः॑ । नमः॑ । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्वि॒ष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे॑ । दध्मः