चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च
ci̱traṁ de̱vānā̱m úd agā̱d anī́kaṁ cákṣur mi̱trasya váruṇasyā̱gneḥ | ā́ ’prā dyā́vā-pṛthivī́ a̱ntárikṣaṁ sū́rya ā̱tmā́ jágatas ta̱sthúṣaś ca ||
Wajah cemerlang para dewa telah terbit tinggi—mata Mitra, Varuṇa, dan Agni. Ia memenuhi langit dan bumi serta ruang-antara: Surya adalah Sang Diri (Ātman) dari segala yang bergerak dan yang tegak.
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः । आ । अ॒प्राः । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒