हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
hiraṇyagárbhaḥ sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt | sá dā́dhāra pṛthivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidhema ||
Hiranyagarbha (Benih Emas) bangkit pada permulaan; lahir sebagai satu-satunya tuan atas segala yang telah menjadi. Ia menopang bumi ini dan langit sana: kepada dewa yang manakah kita persembahkan ibadah dengan persembahan (havis)?
हिरण्य-गर्भः । सम्-अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ।