Yogatattva
कामक्रोधभयं चापि मोहलोभमदो रजः । जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च । एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥
काम । क्रोध । भयम् । च । अपि । मोह । लोभ । मदः । रजः । जन्म । मृत्युः । च । कार्पण्यम् । शोकः । तन्द्रा । क्षुधा । तृषा । तृष्णा । लज्जा । भयम् । दुःखम् । विषादः । हर्षः । एव । च । एभिः । दोषैः । विनिर्मुक्तः । सः । जीवः । केवलः । मतः ।
kāmakrodhabhayaṃ cāpi mohalobhamado rajaḥ | janmamṛtyuś ca kārpaṇyaṃ śokas tandrā kṣudhā tṛṣā || tṛṣṇā lajjā bhayaṃ duḥkhaṃ viṣādo harṣa eva ca | ebhir doṣair vinirmuktaḥ sa jīvaḥ kevalo mataḥ ||
काम, क्रोध और भय; मोह, लोभ, मद और रजोगुण; जन्म‑मृत्यु तथा दीनता; शोक, आलस्य, भूख और प्यास; तृष्णा, लज्जा, भय, दुःख, विषाद और हर्ष—इन सब दोषों से जो मुक्त हो जाता है, वही जीव ‘केवल’ अर्थात् शुद्ध माना जाता है।
Desire, anger, and also fear; delusion, greed, intoxication, and passion; birth and death, and also wretchedness; sorrow, lethargy, hunger, thirst; craving, shame, fear, pain, dejection, and joy as well—freed from these faults, that individual self (jīva) is held to be ‘alone’ (kevala), i.e., pure.