Yagyavalkya
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥१७॥
श्मशानेषु । दिक्-अन्तेषु । सः । एव । ललना-स्तनः ।
श्वभिः । आस्वाद्यते । काले । लघु-पिण्डः । इव । अन्धसः ॥१७॥
śmaśāneṣu diganteṣu sa eva lalanā-stanaḥ |
śvabhir āsvādyate kāle laghupiṇḍa ivāndhasaḥ ||17||
श्मशानों में, दिशाओं के छोरों पर—उसी स्त्री का स्तन समय आने पर कुत्तों द्वारा चखा जाता है, जैसे भोजन का छोटा-सा पिंड॥१७॥
In cremation grounds, at the ends of the directions, that very woman’s breast is, in time, tasted by dogs—like a small lump of food.