Vajrasuchika
तर्हि कर्म ब्राह्मण इति चेत् तन्न । सर्वेषां प्राणिनां प्रारब्धसञ्चितागामिकर्मसाधर्म्यदर्शनात् कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति । तस्मात् न कर्म ब्राह्मण इति ॥७॥
तर्हि । कर्म । ब्राह्मणः । इति । चेत् । तत् । न । सर्वेषाम् । प्राणिनाम् । प्रारब्ध-सञ्चित-आगामि-कर्म-साधर्म्य-दर्शनात् । कर्म-अभिप्रेरिताः । सन्तः । जनाः । क्रियाः । कुर्वन्ति । इति । तस्मात् । न । कर्म । ब्राह्मणः । इति ॥७॥
tarhi karma brāhmaṇa iti cet tan na | sarveṣāṃ prāṇināṃ prārabdha-saṃcita-āgāmi-karma-sādharmya-darśanāt karmābhipreritāḥ santaḥ janāḥ kriyāḥ kurvantīti | tasmāt na karma brāhmaṇa iti ||7||
यदि कहा जाए कि “कर्म ही ब्राह्मण है”, तो यह ठीक नहीं। क्योंकि सभी प्राणियों में प्रारब्ध, संचित और आगामि कर्मों की समानता देखी जाती है; कर्म से प्रेरित होकर ही लोग कर्म करते हैं। इसलिए कर्म ब्राह्मण नहीं है ॥७॥
If it be said, “Then action (karma) is the brāhmaṇa,” that is not so. For, since one observes that all living beings share similarity with respect to prārabdha, saṃcita, and āgāmi karmas, people—impelled by karma—perform actions. Therefore, action is not the brāhmaṇa.