Vajrasuchika
तत्र प्रथमो जीवो ब्राह्मण इति चेत् तन्न । अतीतानागतानेकदेहानां जीवस्यैकरूपत्वात्, एकस्यापि कर्मवशादनेकदेहसम्भवात्, सर्वशरीराणां जीवस्यैकरूपत्वाच्च । तस्मान्न जीवो ब्राह्मण इति ॥ ३॥
तत्र । प्रथमः । जीवः । ब्राह्मणः । इति । चेत् । तत् । न । अतीत-अनागत-अनेक-देहानाम् । जीवस्य । एक-रूपत्वात् । एकस्य । अपि । कर्म-वशात् । अनेक-देह-सम्भवात् । सर्व-शरीराणाम् । जीवस्य । एक-रूपत्वात् । च । तस्मात् । न । जीवः । ब्राह्मणः । इति ॥ ३॥
tatra prathamo jīvo brāhmaṇa iti cet tan na | atītānāgatānekadehānāṁ jīvasyaikarūpatvāt, ekasyāpi karmavaśād anekadehasambhavāt, sarvaśarīrāṇāṁ jīvasyaikarūpatvāc ca | tasmān na jīvo brāhmaṇa iti || 3 ||
यदि पहले यह कहा जाए कि ‘जीव ही ब्राह्मण है’, तो यह ठीक नहीं। क्योंकि भूत और भविष्य के अनेक देहों में जीव का स्वरूप एक-सा है; और एक ही जीव कर्मवश अनेक देहों को प्राप्त करता है; तथा सभी शरीरों में जीव का रूप समान है। इसलिए जीव ब्राह्मण नहीं है॥
There, if (one says) first: ‘the individual soul is the Brāhmaṇa,’ that is not so. Because the soul is of one and the same form in many bodies of the past and the future; because even one (soul), under the force of karma, comes to have many bodies; and because the soul is of one and the same form in all bodies. Therefore, the soul is not (what is meant by) ‘Brāhmaṇa.’