Naadbindu
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा । पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥
पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते । सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥
नवमी महती नाम धृतिस्तु दशमी मता । एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥
घोषिणी । प्रथमा । मात्रा । विद्युत्-मात्रा । तथा । अपरा । पतङ्गिनी । तृतीया । स्यात् । चतुर्थी । वायु-वेगिनी ।
पञ्चमी । नाम-धेया । तु । षष्ठी । च । ऐन्द्र्य्-अभिधीयते । सप्तमी । वैष्णवी । नाम । अष्टमी । शाङ्करी । इति । च ।
नवमी । महती । नाम । धृतिः । तु । दशमी । मता । एकादशी । भवेत् । नारी । ब्राह्मी । तु । द्वादशी । परा ।
ghoṣiṇī prathamā mātrā vidyunmātrā tathā 'parā | pataṅginī tṛtīyā syāc caturthī vāyuveginī ||
pañcamī nāmadheyā tu ṣaṣṭhī caindry abhidhīyate | saptamī vaiṣṇavī nāma aṣṭamī śāṅkarīti ca ||
navamī mahatī nāma dhṛtis tu daśamī matā | ekādaśī bhaven nārī brāhmī tu dvādaśī parā ||
पहली मात्रा ‘घोषिणी’ है, दूसरी ‘विद्युत्-मात्रा’; तीसरी ‘पतंगिनी’ और चौथी ‘वायु-वेगिनी’ कही गई है। पाँचवीं ‘नामधेया’, छठी ‘ऐन्द्री’; सातवीं ‘वैष्णवी’, आठवीं ‘शाङ्करी’। नौवीं ‘महती’, दसवीं ‘धृति’ मानी गई है; ग्यारहवीं ‘नारी’ और बारहवीं, परम, ‘ब्राह्मी’ है।
The first mātrā is (called) Ghoṣiṇī; the next is the Vidyut-mātrā. The third is said to be Pataṅginī; the fourth, Vāyu-veginī. The fifth is named Nāmadheyā; the sixth is called Aindrī. The seventh is named Vaiṣṇavī; the eighth, Śāṅkarī. The ninth is named Mahatī; the tenth is considered Dhṛti. The eleventh becomes Nārī; and the twelfth, the supreme, is Brāhmī.