Brahmavidya
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस् तथैव च । विष्णुश् च भगवान् देव उकारः परिकीर्तितः ॥५॥
यजुः-वेदः । अन्तरिक्षम् । च । दक्षिण-अग्निः । तथा-एव । च । विष्णुः । च । भगवान् । देवः । उ-कारः । परिकीर्तितः ॥ ५ ॥
yajurvedo 'ntarikṣaṃ ca dakṣiṇāgnis tathaiva ca | viṣṇuś ca bhagavān deva ukāraḥ parikīrtitaḥ ||5||
यजुर्वेद, अन्तरिक्ष और दक्षिणाग्नि—तथा भगवान् देव विष्णु—ये ‘उ’कार के रूप में घोषित किए गए हैं॥५॥
The Yajurveda, the midspace (atmosphere), and likewise the Dakṣiṇāgni; and Viṣṇu, the Blessed Lord, the god—these are proclaimed as the sound ‘U’.