Akshi
अनेन क्रमयोगेन संयोगेन महात्मनाम् ।
नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥
कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥२५-२६॥
अनेन । क्रम-योगेन । संयोगेन । महात्मनाम् ।
न । अहम् । कर्ता । ईश्वरः । कर्ता । कर्म । वा । प्राक्तनम् । मम ।
कृत्वा । दूरतरे । नूनम् । इति । शब्द-अर्थ-भावनम् ।
यत् । मौनम् । आसनम् । शान्तम् । तत् । श्रेष्ठ-असङ्गः । उच्यते ।
anena kramayogena saṃyogena mahātmanām |
nāhaṃ kartā īśvaraḥ kartā karma vā prāktanaṃ mama ||
kṛtvā dūratarenūnam iti śabdārthabhāvanam |
yanmaunam āsanaṃ śāntaṃ tacchreṣṭhāsaṅga ucyate ||25–26||
इस क्रमयोग—महात्माओं के इस अनुशासन—से ऐसा भाव करे: “मैं कर्ता नहीं; ईश्वर ही कर्ता है; वर्तमान या पूर्व का कर्म भी मेरा नहीं।” “निश्चय ही मुझसे बहुत दूर” इस शब्दार्थ का मनन करके जो मौन, शांत आसन होता है, वही परम असंग कहलाता है।
By this gradual yoga—this conjunction (discipline) of the great-souled—(one contemplates): “I am not the agent; the Lord is the agent; nor is action, whether present or prior, mine.” Having thus made the contemplation of the meaning of the words—“surely, far away (from me)”—that silent, peaceful posture is called the supreme non-attachment.