उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॒ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा । ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑ नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त्
upayā́ma-gṛhīto ’si dhruvó ’si dhruvá-kṣitir dhruvā́ṇāṃ dhruvatamó ’cyutānām acyuta-kṣittama eṣá te yónir vaiśvānaráya tvā | dhruváṃ dhruvéṇa mánasā vācā́ sómam áva nayāmi | áthā na índra íd víśo ’sapatnā́ḥ samanasaskárat
तू उपयाम-गृहीत है; तू ध्रुव है; तेरी स्थिति ध्रुव है; ध्रुवों में तू परम ध्रुव है; अच्युतों में तू परम अच्युत है। यह तेरा योनि (आधार) है—वैश्वानर के लिए तुझे (स्थापित करता हूँ)। ध्रुव मन और वाणी से मैं सोम को ध्रुव आसन तक नीचे ले जाता हूँ। तब इन्द्र हमारे जनों को—हमें—निरवैर (असपत्न) और एक-मन (समनस्क) करे।
उपयाम-गृहीतः । असि । ध्रुवः । असि । ध्रुव-क्षितिः । ध्रुवाणाम् । ध्रुवतमः । अच्युतानाम् । अच्युत-क्षित्तमः । एषः । ते । योनिः । वैश्वानराय । त्वा । ध्रुवम् । ध्रुवेण । मनसा । वाचा । सोमम् । अव । नयामि । अथ । नः । इन्द्रः । इत् । विशः । असपत्नाः । समनसस्करत् ।