स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ । तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ता॒: सुहु॑ता॒ यत्स्वाहा ऽया॑ड॒ग्नीत्
sá prathamó bṛ́haspátiś cikitvā́ṃs tásmai índrāya sutám ā́ juhota svā́hā | tṛ́mpantu hótrā mádhvo yā́ḥ svíṣṭā yā́ḥ suprī́tāḥ súhutā yát svā́hā ’yā́ḍ agnī́t
वही प्रथम है—बृहस्पति, प्रज्ञावान; उसके लिए, इन्द्र के लिए, निचोड़े हुए (सोम) की आहुति करो—स्वाहा! मधुर रस की होत्र-सेवाएँ तृप्त करें—जो सुविष्ट (भली प्रकार अर्पित), जो सुप्रीत (भली प्रकार प्रसन्न करने वाली), जो सुहुत (भली प्रकार हुत) हैं—जो कुछ स्वाहा के साथ अर्पित है। ‘अयाड्!’—ऐसा अग्नीध् कहता है।
सः । प्रथमः । बृहस्पतिः । चिकित्वान् । तस्मै । इन्द्राय । सुतम् । आ । जुहोत । स्वाहा । तृम्पन्तु । होत्राः । मध्वः । याः । स्विष्टाः । याः । सुप्रीताः । सुहुताः । यत् । स्वाहा । अयाट् । अग्नीत् ।