यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑ः । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒ः स्वाहा॑
yuñjáte mána utá yuñjáte dhíyo víprā víprasya bṛható vipáścitáḥ | ví hótrā dadhé vayunāvíd éka ín mahī́ devásya savitúḥ paríṣṭutiḥ svā́hā
वे (ऋषि) मन को युक्त करते हैं और धियों (विचार-शक्तियों) को भी युक्त करते हैं—प्रेरित विप्र, उस महान्, सर्वज्ञानी विप्र के। विधि-वेत्ता एक (देव) ने होतृ-आदि याज्ञिक कर्मों को व्यवस्थित किया है; देव सविता की परितः व्याप्त महिमा-स्तुति महान् है। स्वाहा।
युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपः-चितः । वि । होत्राः । दधे । वयुना-वित् । एकः । इत् । मही । देवस्य । सवितुः । परि-ष्टुतिः । स्वाहा