तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः । स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अधाय॒तः सम॑स्मात्
táṃ tvā́ śociṣṭha dīdivaḥ sumnā́ya nūnám īmahe sákhībhyaḥ | sá no bodhi śrudhī hávam uruṣyā́ ṇo adhāyatáḥ sám asmā́t ||
हे अत्यन्त दीप्तिमान्, हे प्रकाशमान! हम अभी तुम्हें सुम्न (कल्याणकारी अनुग्रह) के लिए, अपने सखाओं के हित हेतु, प्रार्थना करते हैं। हमारे प्रति जाग्रत हो; हमारी पुकार सुन; इस अत्याचार और समस्त संकट से हमें व्यापक रूप से रक्षित कर।
तम् । त्वा॑ । शोचिष्ठ । दीदिवः । सुम्नाय॑ । नूनम् । ईमहे । सखिभ्यः । सः । नः । बोधि । श्रुधी । हवम् । उरुष्य । नः । अधायतः । समस्मात् ।