प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः
prajā́pates tápasā vāvṛdhānás sadyó jātó dadhīṣe yajñám agne | svā́hākṛtena havíṣā purogā yā́hi sā́dhyā havír adantu devā́ḥ |
प्रजापति के तप से वर्धमान, हे अग्नि, तू तत्काल नवजात होकर यज्ञ को धारण करता है। स्वाहा से कृत हवि लेकर तू अग्रभाग में जा; साध्य और देवगण इस हवि का भक्षण करें।
प्र॒जा-प॑तेः । तप॑सा । वावृधा॒नः । स॒द्यः । जा॒तः । द॒धिषे । य॒ज्ञम् । अ॒ग्ने । स्वाहा॑-कृतेन । ह॒विषा॑ । पु॒रः-गा । या॒हि । सा॒ध्या । ह॒विः । अ॒दन्तु । दे॒वाः