संब॒र्हिर॑ङ्क्ताᳪ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भि॒: सम्म॒रुद्भि॑: । समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥
saṃbárhir aṅktāṃ havíṣā ghṛténa sam ādityáir vásubhiḥ sam marúdbhiḥ | sam índro viśvádevebhir aṅktāṃ divyáṃ nábho gacchatu yát svā́hā ||
पवित्र बर्हि हवि से, घृत से अभ्यक्त हो—आदित्यों के साथ, वसुओं के साथ, मरुतों के साथ। इन्द्र भी विश्वदेवों के साथ उसे अभ्यक्त करे। जो (हवि) ‘स्वाहा’ सहित है, वह दिव्य नभ/आकाश को प्राप्त हो।
सम्-ब॒र्हिः । अ॒ङ्क्ता॒म् । ह॒विषा॑ । घृ॒तेन॑ । सम् । आ॒दि॒त्यैः । वसु॑भिः । सम् । म॒रुद्भिः । सम् । इन्द्रः॑ । वि॒श्वदे॑वेभिः । अ॒ङ्क्ता॒म् । दि॒व्यम् । नभः॑ । ग॒च्छ॒तु॒ । यत् । स्वाहा॑ ।