ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि । अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाᳪसं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि
eṣā́ te agne samíttayā várdhasva cā́ ca pyāyasva | vardhiṣī́mahi ca vayám ā́ ca pyāsiṣīmahi | agne vājajíd vā́jaṃ tvā sasṛvā́ṃsaṃ vājajítaṃ sámmārjmi
हे अग्ने, यह समिधा तेरे लिए है; इससे तू बढ़ और पुष्ट हो। और हम भी बढ़ें, हम भी पुष्ट हों। हे अग्ने, वाज-विजेता, तुझे—वाज-विजेता, बल से प्रवाहित—मैं भली-भाँति मार्जन कर (स्वच्छ) करता हूँ।
एषा । ते । अग्ने । समित् । तया । वर्धस्व । च । च । प्यायस्व । वर्धिषीमहि । च । वयम् । आ । च । प्यासिषीमहि । अग्ने । वाजजित् । वाजम् । त्वा । ससृवांसम् । वाजजितम् । सम् । मार्ज्मि