रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ᳪ राज॑सु नस्कृधि । रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म्
rúcáṃ no dhehi brāhmaṇéṣu rúcáṃ rā́jasu naḥ kṛdhi | rúcáṃ víśyeṣu śūdréṣu máyī dhehi rucā́ rúcám
हमारे लिए ब्राह्मणों में रुचि (तेज) स्थापित कर; राजाओं में हमारे लिए रुचि कर। वैश्य और शूद्रों में भी रुचि स्थापित कर; मुझमें रुचि रख—रुचि से रुचि (तेज से तेज) हो।
रुचम् । नः । धेहि । ब्राह्मणेषु । रुचम् । राजसु । नः । कृधि ।
रुचम् । विश्येषु । शूद्रेषु । मयि । धेहि । रुचा । रुचम् ।