च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒२ आ वि॑वेश
catvā́ri śr̥ṅgā́ tráyo asya pā́dā dvé śī́rṣe saptá hástāso asya | tridhā́ baddhó vr̥ṣabhó roravīti mahó devó mártyāṃ ā́ viveśa
उसके चार शृंग हैं, तीन पाद हैं, दो शीर्ष हैं और सात हस्त हैं। त्रिविध बन्धन से बँधा वह वृषभ ऊँचे स्वर से गर्जता है; वह महान् देव मर्त्यों में प्रविष्ट हो गया है।
च॒त्वारि॑ । शृङ्गा॑ । त्रयः॑ । अ॒स्य॒ । पादा॑ः । द्वे । शी॒र्षे । स॒प्त । हस्ता॑सः । अ॒स्य॒ । त्रिधा॑ । ब॒द्धः । वृष॒भः । रो॒र॒वी॒ति॒ । म॒हः । दे॒वः । मर्त्या॑न् । आ । वि॒वे॒श॒