अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः । त्वᳪ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑
agne sahasrākṣa śatamūrdhan chataṃ te prāṇā́ḥ sahásraṃ vyānā́ḥ | tváṃ sāhasrásya rāyá īśiṣe tásmai te vidhema vā́jāya svā́hā
हे अग्नि! सहस्राक्ष, शतमूर्धन्—तेरे सौ प्राण और सहस्र व्यान हैं। तू सहस्रों प्रकार के धन का अधिपति है; इसलिए बल और विजय-पुरस्कार के लिए हम तुझे हवि अर्पित कर सेवा करते हैं—स्वाहा।
अग्ने॑ । स॒ह॒स्र॒-अ॒क्ष । श॒त॒-मू॒र्ध॒न् । श॒तम् । ते॑ । प्रा॒णाः । स॒ह॒स्रम् । व्या॒नाः । त्वम् । सा॒ह॒स्रस्य॑ । रा॒यः । ई॒शि॒षे । तस्मै॑ । ते॑ । वि॒धे॒म । वाजा॑य । स्वाहा॑