स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सᳪस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ᳪसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑
sa íṣuhastaiḥ sá niṣaṅgíbhir vaśī saṃsrā́ṣṭā sá yúdha índro gaṇéna | saṃsṛṣṭajít somapā́ bāhuśárdhy ugrádhanvā pratihitā́bhir ástā
वह हाथों में बाण लिए, वह निशंग (शस्त्र-समूह) से युक्त; वशी (स्वामी), सᳪस्रष्टा (सेना-व्यवस्थापक)—वह इन्द्र युद्ध में अपने गण के साथ। सᳪसृष्टजित् (सुसंगठित होकर विजयी), सोमप (सोम-पान करने वाला), बाहुशर्ध्य (भुजबल से प्रबल), उग्रधन्वा (भयंकर धनुषधारी), प्रतिहिताभिः अस्ताः (सुसाधित/सुनिशित बाणों का प्रक्षेपक)।
सः । इषु॑-हस्तैः । सः । नि॒ष॒ङ्गि॑भिः । व॒शी । स॒म्- स्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ । स॒म्- सृष्ट॑-जित् । सो॒म॒-पाः । बा॒हु॒-श॒र्धि॑ । उ॒ग्र॒-ध॒न्वा॑ । प्रति॑-हिता॑भिः । अ॒स्ता॑ ।