विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भित॑: स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु
viśvákarman havíṣā vāvṛdhānáḥ svayáṃ yajasva pṛthivī́m utá dyā́m | múhyantv anyé abhítaḥ sápatnā ihā́smā́kaṃ maghávā sū́rir astu ||
हे विश्वकर्मन्! हविषा से वर्धमान होकर स्वयं यज—पृथिवी और द्यौ को (समर्पित कर)। चारों ओर के अन्य सपत्न शत्रु मोहग्रस्त हों; यहाँ हमारा मघवा दाता उदार स्वामी बने।
विश्वकर्मन् । हविषा वावृधानः । स्वयम् यजस्व । पृथिवीम् उत द्याम् । मुह्यन्तु अन्ये । अभितः सपत्नाः । इह अस्माकम् । मघवा । सूरिः अस्तु ।